भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 561 to 570 of 595 verses
यथा चोच्यते— (ध्वन्या. १.४)

प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम्।

यत् तत्प्रसिद्धावयवातिरिक्तमाभाति लावण्यमिवाङ्गनासु॥ १०४॥

तस्य च वाक्‍यार्थभावनोत्तरकालमवगतेरध्यासपक्षे विवर्तपक्षे वा कथमिवोपपत्तिर्भवति ?

उच्यते, विपरिणामाद् भविष्यति।

वस्तुनः अवस्थान्तरगमनं विपरिणामः। तत्र यथा मृदादयो घटादिरूपेण क्षीरादयो दध्यादिरूपेण चैत्रादयो युवादिरूपेण विपरिणमन्ते, तथेदं शब्दब्रह्माप्यविद्योपाधेः तेन तेनार्थरूपेण तथा तथा विपरिणमते।

तद्यथा—'सन्ति मे पञ्च पुत्राः, मातरं पितरं शुश्रूषितवानस्मि, योऽयं युवा द्रमिडदेशे द्रमिडकन्याभिः सहावसं सोऽहमिदानीं पश्‍चिमे वयसि गङ्गातीरे तपश्‍चरामीति। अत्र च शब्दार्थयोः पृथगवभासाद् वाक्‍यार्थस्याभिधीयमानतायां प्रतीयमानतायां वा नानुपपत्तिः, न चैतावता शब्दव्यापारो विंरस्यति। यतस्तात्पर्यमस्य ह्यग्रतो विशेषेण वक्ष्यमाणमास्ते। तस्योदाहरणमात्रम्—

प्राप्‍तश्रीरेष कस्मात् पुनरपि मयि तं मन्थखेदं विदध्या— न्निद्रामप्यस्य पूर्वामनलसमनसो नैव सम्भावयामि।

सेतुं बध्नाति कस्मादयमिह सकलद्वीपनाथानुयात— स्त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः॥ १०५॥

अत्र वर्णनीयराजविशेषस्य विजयिनो यथाश्रुतवाक्‍यार्थोऽभिधीयमानस्त्वयीति पदे विष्णवध्यासावतारः समस्तीति प्रतीयमानस्तदवतारान्तराणां निद्रालसत्वादिदोषयोगादस्य च तद्व्युदासात् ततो वैशिष्ट्यप्रतिपादनं तात्पर्यम्, यस्य काव्येषु ध्वनिरिति प्रसिद्धिः। तदुक्तम्—