तत्र यथा जलादयः कल्लोलादिरूपेण सर्पादयः कुण्डलादिरूपेण नीलादयश्चित्रादिरूपेण विवर्तन्ते तथा शब्दतत्त्वमविद्योपाधेस्तेन तेनार्थरूपेण तथा तथा विवर्तते।
तद्यथा 'व्यपगतघनपटलमचलजलनिधिसदृशवपुरम्बरतलम्, अञ्जनचूर्णपुञ्जश्यामलं शार्वरं तमः।' (प्रप्राभा.) इति।
अथ यथा शब्दस्यार्थो विवर्तस्तथार्थस्य शब्दो यदि भवेत् को दोषः स्यात् ? न कश्चित्। किन्तु—
वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शनी॥ १०२॥
इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम्।
यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते॥ १०३॥
ननु चाभिधीयमानतेव प्रतीयमानतापि वाक्यार्थधर्मो विद्यते।