द्रव्यक्रियातादर्थ्यं यथा—(कुसं. ५.४३)
अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु! कुतः पितुर्गृहे।
पराभिमर्शो न तवास्ति कः करं प्रसारयेत् पन्नगरत्नसूचये॥ ८३॥
प्रकृतिविकारतादर्थ्यं यथा—(रघु. १४.७७)
पुष्पं फलं चार्तवमाहरन्त्यो बीजं च बालेयमकृष्टरोहि।
विनोदयिष्यन्ति नवाभिषङ्गामुदारवाचो मुनिकन्यकास्त्वाम्॥ ८४॥
गेहाद् याता सरितमुदकं हारिका नाजिगीषे
मङ्क्ष्यामीति श्रयसि यमुनातीरवीरुद्गृहाणि।
गोसन्दायी विशसि विपिनान्येव गोवर्धनाद्रेः