निपातादिवाच्यो यथा—(जाह. १.२८)
लीला गतेस्तत्र निसर्गसिद्धा मत्तो न हस्ती मुषितो न हंसः।
इतीव जङ्घायुगलं तदीयं चक्रे तुलाकोट्यधिरोहणानि॥ ८८॥
तृतीयावाच्यो यथा—(कुसं. १.२४)
तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकाशे।
विदूरभूमिर्नवमेघशब्दादुद्भिन्नया रत्नशलाकयेव॥ ८९॥
पञ्चमीवाच्यो यथा—(कुसं. ५.४०)
अतोऽत्र किञ्चिद् भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः।
अयं जनः प्रष्टुमनास्तपोधने ! न चेद् रहस्यं प्रतिवक्तुमर्हसि॥ ९०॥
प्रथमादिवाच्यो यथा—(कुसं. १.११)