स्थाल्या पच्यत एषापि विवक्षा दृश्यते यतः॥ १०९॥
न च भवति एधाः पचन्ति, धनुर्विध्यति, चक्षुः पश्यति, मनो जानाति इति॥ करणमुक्तम्।
संप्रदानमुच्यते; तत्त्रिविधम्— ददातिकर्माप्यं, कर्ममात्राप्यं क्रियाप्यं चेति। तत्र (ददातिकर्माप्यम् —६)
संप्रदानमिति महत्याः संज्ञायाः करणात्। सम्यगस्मै प्रदीयते तद्गवादिना ददातिकर्मणा प्राप्यमुपाध्यायादिकं संप्रदानसंज्ञं भवति। तत् स्वत्वनिवृत्तौ, परस्वत्वापत्तौ, उभययोगे, स्वोपयोगे, परोपयोगो, उभयोपयोगे चेति षोढा विप्रथते।
स्वत्वनिवृत्तौ यथा— शिष्याय विद्यां प्रयच्छति, वराय कन्यां विश्राणयति, आप्तायोपदेशं ददाति, गुरुभ्य आत्मानं निवेदयति।
परस्वत्वापत्तौ यथा— रिपुभ्यो भयं ददाति, शत्रवे प्रहारं प्रयच्छति, वादिने उत्तरं ददाति, दयितायै वाचं प्रयच्छति।
उभययोगे यथा— कर्मकराय छत्रमर्पयति, मूकाय हितमुपदिशति, संवाहकाय कायं वितरति, प्रियतमाय शरीरं ददाति।
१. कारिकाया अस्या वाक्यपदीयस्य मूले भिन्न एव पाठः, पृ. ८६, पूनासंस्करणम्।