भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 591 to 600 of 756 verses
प्रत्यर्पकं यथा— सादिनेऽश्वं निर्दिशति, सन्निधात्रे कोशमर्पयति, समाहर्त्रे राष्ट्रं निवेदयति, अमात्याय मुद्रामुपनयति।

अप्रतिग्राहकं यथा— देवेभ्य उषितान्नं ददाति, पितृभ्यो भुक्तशेषं प्रयच्छति, अन्धाय रूपं दर्शयति, बधिराय शास्त्रमुपदिशति।

(क्रियाप्यम् —६)

कर्मग्रहणेन क्रियाया अपि सङ्ग्रहात् क्रियया यदाप्यते तदपि संप्रदानं, क्रियाव्याप्यमिति च भवति। कर्मणोऽस्मात् को विशेष इति चेदीप्सिततमत्वं नामं तदपि षोढा शेषः, कर्मशेषः, कर्म, व्यवहितकर्म, हेतुः, निमित्तहेतुरिति च। यदाह— (वाप. ३.७.१३०)

हेतुत्वे कर्मसंज्ञायां शेषत्वे वाऽपि कारकम्।

रुच्यर्थादिषु शास्त्रेण संप्रदानाख्यमुच्यते॥ ११०॥

तत्र—

शेषो यथा— देवदत्ताय रोचते, देवदत्ताय स्वदते, देवदत्ताय तिष्ठते, देवदत्ताय नमते।

कर्मशेषो यथा— देवदेत्ताय गां प्रतिश्रृणोति, देवदत्ताय ग्रामश्रृणोति, देवदत्ताय शतं धारयति, देवदत्ताय दैवमीक्षते।

कर्म यथा— देवत्ताय राध्यति, पुष्पाय स्पृहयति, ग्रामाय गच्छति, देवेभ्यो नमति।

Showing 591 to 600 of 756 verses