भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 581 to 590 of 756 verses
स्वोपयोगे यथा— वाताय चक्षुर्ददाति, पृष्ठमातपाय स्पर्शयति, गीताय कर्णं ददाति, श्रुताय चेतो वितरति।

परोपयोगे यथा— पुत्रायाशिषं प्रयच्छति, छात्राय चपेटां ददाति, भीतायाभयं प्रयच्छति, आर्तायौषधं ददाति।

उभयोपयोगे यथा— नापिताय क्षुरं प्रयच्छति, मैत्रावरुणाय दण्डं ददाति, प्रियतमायाधरं प्रयच्छति, प्रियाया अङ्कपालीं ददाति।

'कर्मणा यमभिप्रैति स संप्रदानम्' (१.४.३२) इति परिभाषया लक्ष्यमाणं

(कर्ममात्राप्यम् —६)

कर्ममात्राप्यम् तदपि षोढा प्रेरकमनुमन्तु, निराकर्तृ, अनिराकर्तृ, प्रत्यर्पकं, अप्रतिग्राहकमिति (वाप. ३.७.१२९)। तेषु —

प्रेरकं यथा— याचकायान्नं ददाति, वृद्धिमुत्तमर्णाय प्रयच्छति, द्वाःस्थायोपचारं कल्पयति, दायादाय भागं निर्दिशति।

अनुमन्तृ यथा— गामुपाध्याय निवेदयति, सेवकाय ग्रामं निर्दिशति, पतिंवरायै वरं दर्शयति, दास्यै वस्त्रमतिसृजति।

अनिराकर्तृ यथा— देवाय पुष्पं क्षिपति, कुबेराय बलिमुपहरति, रुद्राय पशुमालभते, सोमायार्घ्यं ददाति।

निराकर्तृ यथा— उन्मत्तायौषधं निर्दिशति, वादिने दूषणं ददाति, टङ्काय दण्डं करोति, शाक्‍यायामिषं प्रेषयति।

Showing 581 to 590 of 756 verses