व्यवहितकर्म यथा— छात्राय श्लाघते, चैत्राय शपते, होत्रे प्रतिगृणाति, पोत्रे अनुगृणाति।
हेतुर्यथा— देवदत्ताय क्रुध्यति, देवदत्ताय द्रुह्यति, देवदत्तायेर्ष्यति, देवदत्तायासूयति।
निमित्तहेतुर्यथा— एधेभ्यो व्रजति, श्राद्धाय निगर्हते, युद्धाय सन्नह्यति, पत्ये शेते इति। एतेन 'रुच्चर्थानां प्रीयमाणः' (१.४.३३), 'श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः' (१.४.३४), 'धारेरुत्तमर्णः' (१.४.३५) 'स्पृहेरीप्सितः' (१.४.३६), 'क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः' (१.४.३७), 'राधीक्ष्योर्यस्य विप्रश्नः' (१.४.३८), 'प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता' (१.४.४०), 'अनुप्रतिगृणश्च' (१.४.४१) 'गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि' (२.२.१२) 'क्रियार्थोपपदस्य कर्मणि स्थानिनः' (२.३.१४) इत्यादिवचन 'कर्मणा यमभिप्रैति स संप्रदानम्' (१.४.३२) इत्याद्ययोगस्यैव प्रपञ्चार्थम् इत्युक्तं भवतीत्यवसितं संप्रदानम्॥
अपादानमुच्यते, 'ध्रुवमपायेऽपादानम्' (१.४.२४); कायसंसर्गपूर्वके बुद्धिसंसर्गपूर्वके वा अपाये यद्ध्रुवमवधिभूतं विवक्षितं तस्यापादानमिति संज्ञा। यथोच्यते—
अपाये यदुदासीनं तद्रूपं यदि वा चलम्।
ध्रुवमेव तदावेशात् तदपादानमुच्यते॥ १११॥
तदपि त्रिविधं निर्दिष्टविषयमुपात्तविषयमपेक्षितक्रियं चेति। तदुक्तम्—
निर्दिष्टविषयं किञ्चिदुपात्तविषयं तथा।