भागं देवेभ्यो विदधात्यायन् प्र चन्द्रमास्तिरति दीर्घमायुः ॥ १२१ ॥
न नूनमस्ति नो श्वः कस्तद्वेद यदद्भुतम्।
अन्यस्य चित्तमभि संचरेण्यमुताधीतं विनश्यति ॥ १२२ ॥
पूर्वोक्तोदाहरणत्रयमपि वैदिकविषयमेव।
वाउ न पुव्वु न पच्छिमु न वि दक्खिणु वहइ।
वणे न कयंबु न अंबु न पाडल महमहइ ॥ १२३a ॥
(वायुः न पूर्वः न पश्चिमः नापि दक्षिणः वहति।
वने न कदम्बः न आम्रः न पाटला गन्धं प्रसारयति ॥)