विधिनिषेधावगतिहेतुर्महावाक्यं प्रबन्धः।
तत्त्रिधा — १. पद्यं, २. गद्यं (च), ३. मिश्रं च।
तेषु च्छन्दोगतं पद्यम्। छन्दस्तु त्रिधा— अक्षरच्छन्दो, मात्राच्छन्दो, गणच्छन्दश्चेति। तान्यपि प्रत्येकं त्रिधा समार्धसमविषमभेदात्। तत्र —
अक्षरच्छन्दस्समं यथा—(ऋवे. १०.१०३.१)
आशुश्शिशानो वृषभो न युध्मो घनाघनः क्षोभणश्चर्षणीनाम्।
संक्रन्दनोऽनिमिष एकवीरश्शतँ सेना अजयत्साकमिन्द्रः ॥ १२० ॥
अर्धसमं यथा—(ऋवे. १०.८५.१९)
नवो नवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रे।