एतेनैतद्व्यतिरेकोऽपि व्याख्यातः। यथा—(सेब. ९.१)
अह पेच्छंति पवंगा सअल—जअक्कमण—व़ड्ढिअमहासिहरं।
णिट्ठविअ—दक्खिण—दिसं सेसदिसा—मुह—पहाविअं व सुवेलं ॥ ११६ ॥
तुङ्ग—अडोज्झर-मुहले जस्स अ कसणमणिगंड—सेलद्धंते।
सेवंतीण ण पत्तो तिअस—वहूण सिढिलत्तणं अणुराओ ॥ ११७ ॥
(अथ प्रेक्षन्ते — — — — अनुरागः ॥)
इत्याश्वासकपरिसमाप्तिर्यावदिति।
ननु वर्णसमूहः पदं, पदसमूहो वाक्यं, वाक्यसमूहः प्रकरणमित्याचक्षते।
तत्कथमुच्यते एकवाक्यं प्रकरणमवान्तरवाक्यं प्रकरणमिति ?