भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 571 to 580 of 1013 verses
(वार्त्तिकोक्‍तः) निरादयः क्रान्ताद्यर्थे पञ्चम्या (२.२.१८ वाप. ६), गमिगाम्यादि कृतापकृतानामुपसंख्यानम् (२.१.२४, ६०) अव्ययानां बहुव्रीर्हिवक्‍तव्यः {२.२.२४ (२)}, इति वार्त्तिकोक्‍तः। यथा निष्कौशाम्बिः, ओदनबुभुक्षुः, क्रयाक्रयिका, पुटापुटिका, उच्‍चैर्मुखः, अस्तिक्षीरा इति।

(सामान्योक्तः) सुप्सुपा (२.१.४), पूर्वादिनिः, सपूर्वाच्‍च (५.२.८६, ८७), कुशाग्राच्छः, समासाच्‍च तद्विषयात् (५.३.१०५,१०६), इति सामान्योक्‍तः। यथा परःशता राजानः, परःसहस्‍त्रा शरदः, पुनरुत्सूतं वासः, पुनर्नवं पयः, कृतपूर्वी कटम्, काकतालीयो न्यायोऽयम्।

२. असूत्रशेषस्‍त्रिधा— नामविषयः, कृद्‌विषयः, तद्धितविषयश्‍च। तत्र—

(नामशेषः) अपरस्पराः क्रियासातत्ये (६.१.१४४), 'पारस्करप्रभृतीनि च संज्ञायाम् (६.१.१५७), पृषोदरादीनि यथोपदिष्टम् (६.३.१०९) इत्यादिर्नामविषयः। यथा— अपरस्पराः सार्थाः गच्छन्ति, आश्‍चर्यं वर्त्तते, पारस्करो मुनिः, कास्तीरं नगरम्, पृषोदरः कश्‍चिन्मयूरः पक्षी—ति।

(कृद्‍‌विषयः) उपपदमतिङ् (२.२.१९), कुगतिप्रादयः (२.२.१८), कर्त्तृकरणे कृता बहुलम् (२.१.३२) इत्यादिः कृद्‍‌विषयः। यथा— कुम्भकारः, पङ्कजम्, ऊरीकृत्य, प्रजवी, अश्‍वक्रीती।

(तद्धितविषयः) द्विगोर्लुगनपत्ये (१.४.८८), 'तिक—कितवादिभ्यो द्वन्द्वे' (२.४.६८), समासान्ताः (५.४.६८), इत्यादिस्तद्धितविषयः। यथा पञ्चसु कपालेषु संस्कृतः पञ्चकपालः, तैकायनश्‍च कैतवानयश्‍च तिककतवाः, उपशरदम्, देवराजः, महोक्षः, मृगनेत्रा रात्रयः इति।

३. ज्ञापकशेषस्त्रिधा— विधिज्ञापितः, निषेधज्ञापितः प्रयोगज्ञापितश्‍च। तत्र — (विधिज्ञापितः) कोः कत् तत्पुरुषे (६.३.१०१), ईषदर्थेऽपि (६.३.१०५), नञो नलोपः (६.३.७३), तिङ्यवक्षेपे च (वा. १), कारकेऽन्यस्य दुक् (६.३.९९), व्यतिहारे सर्वादीनां सुब्बहुलम् (८.१.१२), संख्याविसायपूर्वस्या— ह्नस्याहन्नन्यतरस्यां ङौ' (६.३.११०), दायाद्यं दायाद (६.२.५), इत्यादिको विधिज्ञापितः। यथा कदुष्णम्, अपचसि, अन्यत्कारकः, अन्योन्यम् सायाह्नः, विद्यादायादः इति।

(अलुग्ज्ञापितः) अलुगुत्तरपदे (६.३.१), पञ्चम्याः स्तोकादिभ्यः (६.३.२), आत्मनः पूरणे तृतीयाया (६.३.६), वैयाकरणाख्यायां पराच्चतुर्थ्याः (६.३.७), 'वाग्—दिग्पश्यद्‍भ्यो युक्तिदण्डहरेषु यथासंख्यमलुग् वक्‍तव्यः (६.३.२१ वा. १), षष्ठ्या अदसः फक्वुञोः (६.३.२१, वा.२), अपो योनियन्मन्तुषु सप्तम्याः (६.३.२१ वा) इत्यादिर्निषेधज्ञापितः। — ब्राह्मणाच्छंसी (६.३.२), आत्मनातृतीयः (६.३.६), परस्मैपदम् (६.३.७), पश्यतोहरः (६.३.२१ वा. १), आमुष्यकुलिका (६.३.२१ वा. २), अप्सुयोनिः (६.३.२१) इति।

(प्रयोगज्ञापितः) जनिकर्त्तुः प्रकृतिः (१.४.३०), तत्प्रयोजको हेतुः (१.४.४५), अपोनप्त्रपान्नप्तृभ्यां घः (४.२.२७), यथा—तथाचाऽन्तः (ण्णः) (७.३.३१ मभा.), वर्त्तमानसामीप्ये वर्त्तमानवद् वा (३.३.१३१), अपरस्पराः क्रियासातत्ये (६.१.१४४), इत्यादिः प्रयोगज्ञापितः। यथा— भूतहर्त्ता, दण्डनायकः, तनूनपात्, याथातथ्यम्, यत्‍नगौरवम्, क्रियासाफल्यम् (सातत्यम्) इति।

४. एकशेषस्त्रिधा — सरूपाणाम्, असरूपाणाम् सरूपासरूपाणां। तत्र —

Showing 571 to 580 of 1013 verses