उपर्यध्यसः सामीप्ये (८.१.७) इति द्विर्वचनविधिः।
यथा— परि परि त्रिगर्त्तेभ्यो वृष्टो देवः, (काशिका ८.१.५)
प्र प्रायमग्निर्भरतस्य श्रृण्वे, (ऋवे. ७.८.४)
सं समिद्युवसे वृषन्, (ऋवे. १०.१९१.१)
उपोप मे परामृश, (ऋवे. १.१२६.७)
किं नो दुदु हर्षसे दातया उ, (ऋवे. ४.१.९)
यावत्पुरानिपातयोर्लट् (३.३.४),