पदसंस्कारस्तु द्विधा विधिनिषेधरूपाभ्याम्। तयोः —
१. प्लुतविधिः, २. द्विर्वचनविधिः, ३. लडादिविधिः, ४. पररूपादिविधिरिति विधिरूपः।
१. पररूपादिप्रतिषेधः, २. संहितादिप्रतिषेधः, ३. पदादेशादिप्रतिषेधः,
४. निघातप्रतिषेध इति निषेधरूपः। तत्र —
(६.६.१ विधिरूपः पदसंस्कारार्थाः)
ब्रूहि प्रेष्य श्रौषड् वौषडावहानामादेः (८.२.८५—८७—९१) इति