सामर्थ्यविपर्ययस्त्रिधा पदाऽसामर्थ्यात्, वाक्यासामर्थ्यात्, वृत्त्यसामर्थ्यात्। तत्र—
पदाऽसामर्थ्यं सापेक्षत्वे यथा— देवदत्तस्य गुरुकुलम् (२.१.१ वाप.), ग्रामं गन्तुकामः, ज्ञातचित्तः कान्तया, निवेदितात्मा गुरुभ्यः, कृतप्रस्थानो नगरात्, निष्पन्नबुद्धिः शास्त्रेषु इति।
वाक्याऽसामर्थ्यमस्वपदविग्रहे यथा— ब्राह्मणेभ्योऽयं ब्राह्मणार्थः सूपः (२.१.३६ मभा.), ब्राह्मणार्था यवागूः (२.१.३६ मभा.), मासो जातस्य मासजातः (२.२.५)। एवं संवत्सरजातः (२.२.५), द्वे अहनी जातस्य द्वयहजातः, एवं द्वयह्नजात इति।
वृत्त्यसामर्थ्यं सम्बन्धे यथा— सूर्यमपि न पश्यन्ति असूर्यंपश्या राजदाराः, पुनर्न गीयन्ते अपुनर्गेयाः श्लोकाः, श्राद्धं न भुङ्क्ते अश्राद्धभोजी ब्राह्मणः।
एवम् अलवणभोजी भिक्षुरिति, तीर्थे ध्वाङ्क्ष इव तिष्ठतीति तीर्थध्वाङ्क्षः (२.१.४२)। एवं तीर्थकाक (२.१.४२) इति।
अर्थाधिक्यं त्रिधा— विशेषणस्य, विशेष्यस्य, समुदायस्य च।
विशेषणस्य यथा— वर्षशतमायुरस्य शतायुः (तै.सं. २.३.११.५), जनसहस्रं बिभर्त्ति सहस्रंभरः (तैसं. ३.४.११.२), अश्रेणयः श्रेणयः कृताः श्रेणीकृताः (२.१. ५९), अपण्डितः पण्डित उक्तः पण्डितोक्तः, शस्त्रीव श्यामा शस्त्रीश्यामा (२.१. ५५), पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्र इति।
विशेष्यस्य यथा—घृतेन पूर्णो घटः घृतघटः (मभा. २.१.१), अश्वैर्युक्तो रथोऽश्वरथः (मभा. २.१.१), दघ्नोपसिक्त ओदनो दध्योदनः (म.भा. २.१.१), गुडेन मिश्रा धाना गुडधानाः (मभा. २.१.१), अक्षेषु प्रसक्तो धूर्त्तः अक्षधूर्त्तः (मभा. २.१.४०), शाकप्रधानः पार्थिवः शाकपार्थिव इति।
समुदायस्य यथा— श्वभिर्लेह्यः कूपः श्वलेह्यः कूपः (२.१.३३ काशिका), काकैः पेया नदी काकपेया नदी (२.१.३३ काशिका), खट्वायामारूढः खट्वाऽऽरूढो जाल्मः, पात्र एव समिताः पात्रेसमिताः, एवं किंराजा यो न रक्षति (२.१.६४ काशिका), किंगौः यो न वहति (२.१.६४ काशिका) इति। अत्र पूर्वयोरतिशयः, शेषेषु क्षेपः समुदायस्य प्रतीयते।