अन्तोपसंहृतं यथा—(कुसं. ७.६५)
स्थाने तपो दुश्चरमेतदर्थमपर्णया पेलवयाभितप्तम्।
या दास्यमप्यस्य लभेत नारी सा स्यात्कृतार्था किमुताङ्कशय्याम् ॥ ११० ॥
इत्यौषधिप्रस्थविलासिनीनां श्रृण्वन् कथाः श्रोत्रसुखास्त्रिनेत्रः।
केयूरचूर्णीकृतलाजमुष्टिर्हिमालयस्यालयमाससाद ॥ १११ ॥
(३) एकानेकवाक्यं द्विधा— सर्वनामयोजितं विभक्तियोजितं च। तयोः सर्वनामयोजितं यथा—
'अस्त्युत्तरस्यां दिशि' ॥ ११२ ॥ (कुसं.१.१) इत्यादि।