लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः ॥ १०६ ॥
'ते हिमालयमामन्त्र्य' ॥ १०७ ॥ (कुसं. ६.९४)इत्यादि
(२) अनेकवाक्यं द्विधा— आद्युपसंहृतमन्तोपसंहृतं च। तयोः
आद्युपसंहृतं यथा—(कुसं. ७.५६)
तस्मिन् क्षणे पौरविलासिनीनामीशानसंदर्शनलालसानाम्।
प्रासादमालासु बभूवुरित्थं त्यक्तान्यकार्याणि विचेष्टितानि ॥ १०८ ॥
'तासां मुखैरासवगन्धगर्भैः' ॥ १०९ ॥ (कुसं. ७.६२. रघु.७.११) इत्यादि।