भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 541 to 550 of 1013 verses
विभाषितैकवद्‍भाव उभयविषयः। यथा— अश्‍वबडबौ, अश्‍वबडबम् (२.४.१२), हंसचक्रवाकाः, हंसचक्रवाकम् (मभा. २.४.१२)। धवखदिरपलाशा धवखदिरपलाशम् (२.२.२९) इति ॥

(२. वैकृतः)

प्रकृतेरन्यथात्वं विकृतिः, तत्र भवो वैकृतः।

सोऽपि चतुर्धा— (१) प्राधान्यविपरीतः, (२) सामर्थ्यविपरीतः, (३) वाक्याधिकारार्थः, (४) अर्थान्तरगामी च। तेषु —

(१. प्राधान्यविपरीतः)

प्रधान्यविपर्ययस्‍त्रिधा— पूर्वपदार्थप्राधान्यविपर्ययः, उत्तरपदार्थप्राधान्यविपर्ययः, अन्यपदार्थप्राधान्यविपर्ययश्‍चेति। तत्र—

पूर्वपदार्थप्राधान्यविपर्ययोऽव्ययीभावो यथा— शाकप्रति (२.१.९), अक्षपरि (२.१.१०), तिष्ठद्गु (२.१.१७), उन्मत्तगङ्गम् (२.१.२१), पञ्चनदम् (२.१.२०पा.), सप्तगोदावरम् (२.१.२० पा.) इति।

उत्तरपदार्थप्राधान्यविपर्ययस्तत्पुरुषो यथा— राजदन्तः (२.२.३१), पूर्वकायः (२.२.१), प्राप्तजीविकः (२.२.४), गोगर्भिणी (२.१.७१), अश्वमतल्लिका (२.१. ६६), गोवृन्दारक (२.१.६२) इति।

अन्यपदार्थप्राधान्यविपर्ययो बहुव्रीहिर्यथा— 'द्वौ वा त्रयो वा' द्वित्राः (५.४.७३), एवं पञ्चषाः (५.४.७३), आसन्नो दशानामासन्नदशः (२.१.१ वा ३), एवम् अदूरदशः (२.१.१), एवं द्विर्दश द्विदशाः, एवं त्रिदशाः (२.१.१) इति।

(२. सामर्थ्यविपरीतः)

Showing 541 to 550 of 1013 verses