अनव्ययानां यथा— अग्रेवणम् (८.४.४), मध्यन्दिनम्, चतुर्द्दश, द्विमुनि (२.१.१९), पारेगङ्गम् (२.१.१८), मध्येसमुद्रम् (२.१.१८) इति।
कर्मप्रवचनीयानां यथा— अप—त्रिगर्त्तम् (२.१.१२), आप्रपदम्, आपटलिपुत्रम् (२.१.१३), अनुवनम् (२.१.१५), अनुगङ्गम् (२.१.१६) इति।
उत्तरपदार्थप्रधानस्तत्पुरुषः।
सोऽपि त्रिधा— व्यधिकरणः, समानाधिकरणः, द्विगुश्चेति। तत्र —
व्यधिकरणो यथा— राजपुरूषः कष्टश्रितः, शङ्कुलाखण्डः, धान्यार्थः, यूपदारु, वृकभयम्, कुम्भीपाकः (२.१.४१), इति,
समानाधिकरणो यथा— नीलोत्पलम्, एकपुरूषः, केवलान्नम् (२.१.४९), पालकुलालः (२.१.५४), अब्राह्मणः, ईषत्कडार इति।
द्विगुः द्विगुर्यथा— द्वैमातुरः, पाञ्चनापितिः, पञ्चगवधनः, त्रिलोकहर्म्यम्, पञ्चपूली (२.४.१७), चतुःपात्रम् इति।
१. तिसृका, ग्रामविशेषः, तैसृकं तत्र भवम् आच्छादनम्, तच्च कालविशेष एव भोग्यं भवति शैत्ये वा ग्रीष्मे वा। यच्च सार्वकालं तदतिक्रान्तमित्यतितैसृकम् (काशिका २.१.६)। २. सकिखि, किखी अपचितपरिमाणः श्रृगालः — पदमञ्जरी। सदृशः किख्येति सकिखिः।