तदेतदग्रतः प्रातिपदिकार्थनिर्णये निश्चेष्यत इति नेह प्रतन्यते।
(३. समासरूपं विभक्तावयवम्)
अथ पृथगर्थानामेकार्थीभावः समासः।
स त्रिधा— १. प्राकृतः, २ वैकृतः ३. शेषश्च। तेषु—
समस्तपदानामव्ययीभावादिसंज्ञानिमित्तं पूर्वपदप्रधानादिका प्रकृतिः; तत्र भवः प्राकृतः। स चतुर्धा— (१) अव्ययीभावः, (२) तत्पुरूषः, (३) बहुव्रीहिः, (४) द्वन्द्व इति। तेषु—
पूर्वपदा(र्थ)प्रधानोऽव्ययीभावः।
स त्रिधा— अव्ययानाम्, अनव्ययानाम्, कर्मप्रवचनीयानां च। तत्र—
अव्ययनां यथा— 'अधिस्त्रि' (२.१.६), उपकुम्भम् (२.१.६), १अतितैसृकम् (२.१.६), २सकिखि (२.१.६), यावदमत्रम् (२.१.८), बहिर्ग्रामम् (२.१.१२) इति।