उपसर्गेण सम्बन्धे व्यज्यन्ते प्रपरादिना ॥ ४४ ॥
यदाभिधानसामर्थ्यं धातोर्नैकाकिनस्तदा।
धातूपसर्गौ संभूय समर्थावर्थमाहतुः ॥ ४५ ॥
ननु च प्रथमतः साधनसम्बन्धे प्रपचतीत्यत्र प्रकृष्टः पचतीति स्यात्, न तु प्रकृष्टं पचतीति ?
तन्न, साधु पचतीत्यादावपि समानदोषत्वात्। क्रियामात्रेणैव सम्बन्ध इति चेद् इहापि स एवार्थः।
कथञ्च प्रादयश्चादिवदसत्त्ववचनाः क्रियाविशेषकाः कर्त्तृविशेषणं भवेयुः?
उपसर्गाः क्रियायोग (१.४.५९) इति वचनात्।
कथं पुनरसत्त्ववचनाश्चादयो भवन्ति ?