तेषामुच्चावचार्थत्वात् सर्वसंबन्धदर्शनात्।
अन्यतन्त्रतयोद्भूतेरसत्त्वार्थत्वमुच्यते ॥ ४६ ॥
अथ किममी वाचका उत द्योतका इति ?
तत्प्रयोगाऽवसेयत्वाद् वाच्यस्तेषां स गम्यते।
समुच्चयादिरर्थात्मा यथाऽन्येषां गवादिकः ॥ ४७ ॥
षष्ठ्यभावादसत्त्वोक्तेरेकानुक्तेः परस्थितेः।
गुणभावात् स्मृतेश्चैषां द्योतकत्वं सुनिश्चितम् ॥ ४८ ॥