एते च विधिनिषेधादन्यत्रापि वेदितव्या इति।
(६. अविधिनिषेधार्था निपाताः)
उ, उत, आहो, वै, हि, वा, खलु, स्विदिति पदपूरणार्थाः।
यथा— किमु, किमुत, उताहो, नवै, नहि, अथवा, नखलु, आहोस्विद् इति।
कम्, ईम्, सीम्, इत्, उ, तु, हि, च इति पादपूरणार्थाः।
यथा— शिशिरं जीवनाय कम्, (निरुक्त १.१०.१)
ए (आ+ई) मं सृजता सुते, (ऋवे. १.९.२, निरुक्तम् १.१०.२)
प्र सीमादित्यो ऋ सृजद् विधर्त्ता, (ऋवे.२.२८.४, निरुक्तम् १.७.३)