अन्यपदार्थप्रधानो बहुव्रीहिः।
स त्रिधा— प्रधानसम्बन्ध्यर्थः, अप्रधानसम्बन्ध्यर्थः, कारकार्थश्चेति। तेषु —
प्रधानसम्बन्ध्यर्थो यथा— दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं सा दक्षिणपूर्वा (२.२.२६)। एवं दक्षिणापरा, सहाग्निना वर्त्तते साग्निः, सवंशपुत्रः, केशेषु केशेषु गुहीत्वेदं युद्धं प्रवर्त्तते केशाकेशि (३.३.१९), दण्डैश्च दण्डैश्च प्रहृत्य दण्डादण्डि। प्रथमान्तमिह प्रधानमन्यपदार्थः।
अप्रधानसम्बन्ध्यर्थो यथा— चित्रा गावोऽस्य चित्रगुः, अर्धं तृतीयमेषामर्धतृतीयाः, अविद्यमाना भार्या अस्य अभार्यः (२.२.२४), उष्ट्रस्येव मुखमस्य उष्ट्रमुखः (२.२.२४) कण्ठे स्थिताः काला अस्य कण्ठेकालः (२.२.२४), केशसंहारः चुडा अस्य केशचुडः (२.२.२४) इति। षष्ठ्यन्तमिहाप्रधानमन्यपदार्थः।
कारकार्थो यथा— आरूढो वानरो यं स आरूढवानरो वृक्षः (२.१.६), ऊढो रथो येन स ऊढरथोऽनड्वान् (२.२.२४)। एवं क्षुण्णब्रीहि मुसलम्, उपहृतपशू रुद्रः (२.२.२४), उद्धृतौदना स्थाली (२.२.२४), मत्तबहुमातङ्ग वनम् इति। अत्र द्वितीयादिवाच्यं कर्मादिकारकं समासार्थः।
उभयपदार्थप्रधानो द्वन्द्व।
स त्रिधा— इतरेतरविषयः. समाहारविषयः, उभयविषयश्च। तत्र —
भेदविवक्षायाम् इतरेतरयोगः। यथा— धवखदिरौ, मातापितरौ, दधिपयसी, शिववैश्रवणौ (२.४.१४), गोऽश्वौ (२.४.११), दशेमे मार्दङ्गिकपाणविकाः (२.४.१५) इति।
अभेदविवक्षायां समाहारः। यथा— पाणिपादम् (२.४.२), रथिकाश्वारोहम् (२.४.२), तक्षाऽयस्कारम् (२.४.१०), गवाश्वम् (२.४.११), प्रत्यष्ठात् कठकौथुमम् (म.भा. २.४.३), उदगात् कठकालापम् (मभा. २.४.३) इति।