इति यावत्। अत्र हि—(रघु. १२.२९)
स जहार तयोर्मध्ये मैथिलीं लोकशोषणः।
नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे ॥ १०५ ॥
इत्यादेः प्रकरणार्थस्याग्रतः फलानुपलम्भादाकस्मिकस्यापि निर्बीजत्वमवगम्यते। तदिदमर्थतस्त्रिधा प्रकरणमभिहितम्।
अथ शब्दतोऽपि त्रिधैवाभिधीयते—
१. एकवाक्यम्, २. अनेकवाक्यम्, ३. एकानेकवाक्यम् च।
(१) तत्रैकवाक्यं द्विधा—सानुबन्धं निरनुबन्धं च। तयोः
सानुबन्धं यथा—(रघु. १२.७८)
स मारुतिसमानीतमहौषधिहृतव्यथः।