इति सबीजम्। यस्याग्रतः — (रघु. ७.६१)
प्रियम्वदात् प्राप्तमथ प्रियार्हः प्रायुङ्क्त राजस्वधिराजसूनुः।
गान्धर्वमस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वप्ननिवृत्तलौल्यः ॥ १०२ ॥
निर्बीजं यथा—(रघु. १२.२८)
सन्ध्याभ्रकपिशस्तत्र विराधो नाम राक्षसः।
अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः ॥ १०३ ॥
तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम्।
गन्धेनाशुचिना चेति वसुधायां निचख्नतुः ॥ १०४ ॥