अथोपरिष्टाद् भ्रमरैर्भ्रमद्भिः प्राक्सूचितान्तः सलिलप्रवेशः।
निर्धौतदानामलगण्डभित्तिर्वन्यस्सरित्तो गज उन्ममज्ज ॥ ९९ ॥
इत्थं तयोरध्वनि दैवयोगादासेदुषोस्सख्यमचिन्त्यहेतु।
एको ययौ चैत्ररथप्रदेशान् सौराज्यरम्यानपरो विदर्भान् ॥ १०० ॥
गान्धर्वमस्त्र तदतः प्रतीच्छ प्रयोगसंहार—विभक्तमन्त्रम्।
प्रस्वापनं नाम यतः प्रहर्तुर्न चारिहिंसा विजयश्च हस्ते ॥ १०१ ॥