भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 561 to 570 of 1013 verses
(४. अर्थान्तरगमनम्)

अर्थान्तरगमनं त्रिधा— पूर्वार्थत्यागात्, अत्यागात्, त्यागात्यागाभ्यां च। तत्र—

पूर्वार्थस्य त्यागो यथा— तैलपायिका, शक्रगोपः, अश्‍वकर्णः, पञ्चाङ्गुलः, करवीरः, पुंनाग इति।

अत्यागो यथा— कृष्णसर्पः, लोहितशाली, कालशाकः, गौरखरः, नरसिंहः, दन्तलेख(क) (२.२.१७) इति।

त्यागात्यागौ यथा— सप्त पर्णान्यस्य पर्वणि पर्वणि इति सप्तपर्णः (वाप. वृत्तिः ५५), अष्ट पदान्यस्य पङ्क्तौ पङ्क्तौ इत्यष्टापदम्, शतं पत्राणामस्याः पुष्पे पुष्पे इति शतपत्रिका, दर्शने दर्शने नवैव मालिका अस्या नवमालिका, नक्‍तमिव मालायामस्य नक्तमालः, कृता माला अस्य पुष्पैरिति कृतमाल इति ॥

(३. शेषः)

उदाहृतप्रकाराभ्यामन्यः शेषः।

स चतुर्धा १. सूत्रशेषः, २. असूत्रशेषः, ३. ज्ञापकशेषः, ४. एकशेषश्‍चेति। तेषु

(१) सूत्रशेषस्‍त्रिधा— गणोक्‍तः, वार्त्तिकोक्‍तः सामान्योक्‍तश्‍च। तत्र —

(गणोक्‍तः) तिष्ठद्गुप्रभृतीनि (२.१.१७), पात्रे समितादयः (२.१.४८) मयूरव्यंसकादयः (२.१.७२) इति गणोक्‍तः। यथा— 'आयतीगवम्, समभूमि, उदुम्बरमशकम्, पिण्डीशूरः, अहंपूर्विका, आहोपुरुषिका इति।

Showing 561 to 570 of 1013 verses