सरूपाणां भिन्नार्थानामभिन्नार्थानां भिन्नाभिन्नार्थानां च।१
भिन्नार्थानां यथा— अक्षौ, माषौ, पक्षौ, पादौ, गावौ इति।
अभिन्नार्थानां यथा— वृक्षौ, प्लक्षौ इति।
१. सरूपत्वमभिन्नप्रयत्नोच्चार्यत्वम्। यथा 'रामः, रामौ, रामाः' इति। अत्र रामाविति, रामा इति च 'रामः रामः' इत्येवं 'रामः, रामः, रामश्चे'—त्येवम्। एवं च प्रतीतावेकत्वं, किन्तु गर्भे बहुत्वम्। उच्चारणे त्वभिन्नप्रयत्नत्वमिति स्वाभाविक एष एकशेषः।
भिन्नाऽभिन्नार्थानां यथा— 'अश्विनौ, पुष्पवन्तौ, गावौ, सारस्वतौ युवाम्, यूयम् इति। असरूपाणां सर्वनाम्नां, सम्बन्धिनां सहचारिणां च।
सर्वनाम्नां यथा— स च देवदत्तश्च तौ, एतौ च यज्ञदत्तश्च एते, अयं च त्वं च युवाम्, अमू च त्वं च यूयम्, त्वं चाहं च आवाम्, स च आवां च वयम् इति।
सम्बन्धिनां यथा— माता च पिता च पितरौ, स्वसा च भ्राता च भ्रातरौ, पुत्रश्च दुहिता च पुत्रौ, पिता च मातामहादयश्च पितरः, भ्रातरौ च स्वसारश्च भ्रातरः, पुत्राश्च दुहितरौ च पुत्राः इति।
सहचारिणां यथा— दस्त्रश्च नासत्यश्च दस्त्रौ, देवदत्तश्च विष्णुमित्रश्च विष्णुमित्रौ, शौण्डश्च धूर्त्तादयश्च शौण्डाः, अर्धर्चश्च गोमादयश्च अर्धर्चाः, पुरोडाशश्च धानादयश्च पुरोडाशाः, छत्रिणः।
सरूपासरूपाणां भिन्नशब्दानां, भिन्नवचनानां, भिन्नलिङ्गानां च।
भिन्नशब्दानां यथा— गार्ग्यश्च गार्ग्यायणी च गार्ग्यौ, वात्स्यश्च वात्स्यायनश्च वात्स्यौ, प्रथमश्च प्रथमानन्तरश्च प्रथमौ, भीमश्च भीमसेनश्च भीमौ, वक्रदण्डश्च कुटिलदण्डश्च वक्रदण्डौ, श्रीमांश्च लक्ष्मीवां(मां)श्च श्रीमन्तौ इति।