भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 601 to 610 of 1013 verses
यथा तर्ह्येकस्यैव शब्दस्यानेकार्थाभिधानसामर्थ्यादेकशेषे शब्दान्तराणां निवृत्तिः एवं द्वन्द्वेऽपि कस्मान्न भवति ?

यदि भवेदेकशेषादविशेषः प्रसज्येत।

समाहार एकवचनं विशेष इति चेत्, अनेकार्थो न गम्येत। न हि पलाशमित्युक्‍त धवश्‍च खदिरश्‍च पलाशश्‍चेति कश्‍चिदप्यवैति।

अथ यथा पितरौ भ्रातरावित्यादिषु शब्दान्तरनिवृत्तावपि तदर्थोऽवगम्यते तथा प्लक्षन्यग्रोधौ धवखदिरावित्यादिषु द्वन्द्वेष्वपि कस्मान्न भवति ?

उच्यते शब्दशक्तिरेषा। भवति हि कश्‍चिदेकोऽपि शब्दो द्वयोरप्यभिधायकः। यथा रोदसीशब्दो द्यावापृथिव्योः। कौचित् पुनर्द्वावेवैकमर्थमभिदधाते, यथा अधीते अध्येति इति। अत एव शब्दशक्तिदर्शी मुनिः केषुचिदेवं विरूपेष्वेकशेषमारभते भ्रातृपुत्रौ 'स्वसृदुहितृभ्याम्' (१.२.६८), 'पिता मात्रा' (१.२.७०) इति। अन्येषु तु द्वन्द्वमेवाऽभ्यनुजानाति ॥

ननु च 'चार्थे द्वन्द्वः' (२.२.२९) स्मर्यते; स यथा —

समाहारेतरेतरयोगयोः तथा समुच्चयान्वाचययोरपि प्राप्नोति।

नैवम्, समुच्चयान्वाचययोः पदानामसामर्थ्यात्।

कथमसामर्थ्यम् ?

सापेक्षमसमर्थं भवतीति। तथाहि— गौश्‍चाश्‍वश्‍च गच्छतीत्यादिरेकक्रियापेक्षः समुच्चयः; भिक्षामट गां चाऽऽनयेत्यादिरनेकक्रियापेक्षः अन्वाचयः। एवं च बाह्यार्थापेक्षया पदानां परस्परसामर्थ्यम्। समर्थश्‍च पदविधिर्भवति। समाहारेतरेतरयोगयोस्तु समूहत्वात्, समूहस्य च समूहिरूपत्वादवयवानां सति सामर्थ्ये समासो भवत्यैव। यथा धवखदिरपलाशम्, धवखदिरपलाशा इति।

Showing 601 to 610 of 1013 verses