यदप्युक्तं प्रवृत्तिनिवृत्तिसमारोपादिति, तदप्यसारम्, न हि प्रक्षरतीति व्युत्पत्त्या न्यग्रोधः प्लक्षः, नापि न्यङ्रोहतीति व्युत्पत्त्या प्लक्षो न्यग्रोधो भवति; रूढानां हि धर्मनियमाय यथाकथञ्चिद् व्युत्पत्तिः क्रियते, न तु व्युत्पत्तिवशेन रूढयोऽवतिष्ठन्ते।
नापि प्रकृतिप्रत्ययवदन्वयव्यतिरेकसमधिगम्या धवादीनां समुदायार्थता।
यदप्युच्यते शौण्डार्धार्चादिवत् धवशब्दः साहचर्यादिलक्षणया खदिरमुपादत्त इति तदपि न सम्यक्, सति श्रुत्यर्थसंभवे लक्षणाया अयोगात्। न च खदिरार्थो धूर्त्तगोमयावल्लक्षयितव्यः, तस्य खदिरशब्देनैव साक्षादभिधानात्।
एवं तर्हि, यदा धवखदिरादयः समुदायाः प्रविभागेनान्वाचिख्यासिताः, तदा तमेव समुदायं प्रत्याय्यतयाऽभिसंधायावयवा उपादीयन्ते, न त्ववयवार्थप्रतिपादनाभिप्रायेण। अतस्तस्यां युगपदधिकरणवचनतायां समीहितायां समुदायपरत्वादवयवप्रयोगस्य, तेषामवयवानां प्रत्येकमनेकार्थत्वमुच्यते।
किं पुनः प्रयोक्तुरभिप्रायमनुरुध्यन्ते शब्दाः? येन तदभिसन्धानात् समुदायमभिदध्युः।
नेत्याह। अन्यत्राप्यवयवाभिधायिनां शब्दानामवयवमुखेन समुदायाभिधानसामर्थ्यं दृश्यते; यथा सुरभि कुक्लयम्, यन्मधुरं राजादनम् इति। यदि हि सुरभिमधुरशब्दौ गन्धरसमात्राभिधायिनावपि गन्धरसादिसमुदायान् कुसुमफलविशेषादीन् अवयवमुखेन नाचक्षाते, कुवलयादिभिः सामानाधिकरण्यं विरुध्यते।
सत्यमेतत्। अस्ति समुदायाभिधानसामर्थ्यमवयवशब्दानाम्, सुरभि कुवलयमित्यादौ सामानाधिकरण्येन तदवधार्यते; द्वन्द्वे तु निबन्धनमशक्य— मवधारयितुमिति तस्यानुपपत्तिः।
नैवम्। समुदायाभिधानस्य प्रक्रान्तत्वात्।
यद्येवं पद्वीमृद्वा(द्व्या)विति समानाधिकरणलक्षणः पुंवद्भावः प्राप्नोति।
उच्यते। अथेह कस्मान्न भवति दर्शनीयाया(:) माता दर्शनीयामाता ?