एवं तर्हि समूहस्यैकत्वात् समाहारवदितरेतरयोगेऽप्येकवचनमेव प्राप्नोति।
नैवम्। समाहार एव परस्परानुप्रवेशादिव समधिगताभेदानामुपसर्जनीकृतावयवः समुदायोऽभ्यनुज्ञायते, यस्यानभिव्यक्तावयवत्वादेकवचनमिव नपुंसकत्वमपि प्राप्नोति; इतरेतरयोगः पुनरवयवभेदानुगतः सङ्घातः, तस्य १प्रत्येकवर्त्तिपदैरभिधीयमानत्वात् समुदायसंख्यानिबन्धनैकवचनमवयेभ्यः प्रस्तूयते। तत्र
यथा पचतीत्यादौ अधिश्रयणादिक्रियाकलापः प्रत्यवयवं परिसमाप्यते तथा समुदायोऽपि प्रतिपदं साकल्येन परिसमाप्यते। तत एकैकस्य पदस्य समुदायनिबन्धनः संस्कारो भवति।
कथं पुनर्धवादयो निर्धारितार्थभेदाः पदान्तरस्यार्थमभिधातुं क्षमन्ते ?
प्रवृत्तिनिवृत्तिसमारोपात्। यथोक्तम् — 'यदि प्रक्षरतीति प्लक्षः, न्यग्रोधोऽप्येवम्। यदि न्यग् रोहतीति न्यग्रोधः प्लक्षोऽप्येवम्' इति।
साहचर्यादिवशेन वा परस्पररूपापत्तिः। यथा 'सप्तमी शौण्डैः (२.१.४०), 'अर्धर्चाः पुंसि (२.४.३१), ते विष्णुमित्राः छत्रिणो गच्छन्तीति।
तत्र यथा शौण्डार्धार्चादयः बहुवचनान्यथानुपपत्तिसमभिगम्यान् सहचारिणो भिन्नरूपान् धूर्त्तगोमयादीनुपाददते तथा धवादिशब्दाः प्रतीतार्थभेदाः साहचर्चादि— निमित्तानुरोधेन खदिरादीनुपाददते। तथाहि एकवृत्तिपदावरोधप्रतीतसाहचर्यौ धवखदिरौ; अत एव तयोरेव प्रत्यवयवनिवेशाद् बहुवचनं न भवति।
१. अधिकरणं वर्त्तिपदार्थः, स हि समासस्यार्थस्याधारः (काशिका २.२.२९)। पदमञ्जरी वृत्तिर्वर्त्तः समासः, न्यासश्च वर्त्तनं वर्त्तः समासः, भावे घञ्। वर्तोऽस्यास्तीति वर्त्ति।
कथं पुनर्धवादीनामर्थान्तराभिधानं शक्यमध्यवसातुम् ?
यावता लोकः पदसमुदायादर्थसमुदायमवैति, नावयवात्।