भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 591 to 600 of 1013 verses
भिन्नवचनानां यथा— देवश्‍च दत्तश्‍च देवदत्तौ, तौ च देवदत्तश्‍च देवदत्ताः। एवं विष्णुमित्राः। कृष्णश्‍च सा(शा)रश्‍च कृष्णसा(शा)रौ, तौ च सारश्‍च कृष्णसा(शा)राः/एवं नीललोहिताः। अपारश्‍च पारश्‍च अपारपारौ, तौ च पारपारश्‍च पारपाराः। एवमपारपारा इति।

भिन्नलिङ्गानां यथा कुक्कुटश्‍च कुक्कुटी च कुक्कुटौ, श्‍वशुरश्‍च श्वश्रूश्‍च श्‍वशुरौ, गावश्‍च गावश्‍च गाव इमाः, वत्सकाश्‍च वत्सिकाश्‍च वत्सिकाश्‍च वत्सका इमे, अश्‍वाश्‍च अश्‍वाश्‍च अश्‍वा एते, शुक्लश्‍च शुक्ला च शुक्लं च तदिदं शुक्लम्, तानीमानि शुक्लानीति। (१.२.६९ काशिका)

कथं पुनरेकशेषः समासविशेषो भवति?

संक्षेपाभिधाने सति द्वन्द्वसमानार्थत्वात्। तथाहि— असरूपाणां द्वन्द्वः, सरूपासरूपाणाम् एकशेषः इति।

कोऽनयोः समानोऽर्थः?

येयं युगपदधिकरणवचनता पदार्थानां सहविवक्षेत्यर्थः। तदाह— (वाप. ३.१४.२८)

अनुस्यूतेव भेदाभ्यामेका प्रख्योपजायते।

यस्यां सहविवक्षां तामाहुर्द्वन्द्वैकशेषयोः ॥ ४९ ॥ इति।

तत्र यदा प्रयोगैकतया बुद्ध्याऽनेकमर्थमवगत्य यथावगतमेवाऽभिधातुमध्यवस्यते तदैकज्ञानावच्छेदानिरूपितभेदस्यास्य भागशोऽभिधानासंभवादवयवशब्दाः संघातविषया विज्ञायन्ते। तद‌्यथा— 'धवखदिरौ वृक्षौ इति।

यद्येवं, यथा धवखदिरपलाशमिति द्वन्द्वस्य समूहार्थत्वादेकवचनम्, एकशेषस्यापि प्राप्नोति। नैवम्, द्वन्द्वः समाहारेतरेतरयोगयोः, एकशेषः पुनरितरेतरयोग एव; तस्य हि समाहारपक्षे भिन्नार्थप्रतिपादकानेकशब्दनिवृत्तौ वचनमपि यद्यनेकार्थं न भवेत् केनाऽनेकार्थः प्रतीयेत? न हि वृक्ष इत्युक्‍ते वृक्षश्‍च वृक्षश्‍च वृक्षश्‍चेति कश्‍चिदप्यवैति ? तस्मादाम्नातोऽपि द्वन्द्वसमानार्थतया समाहार एकशेषोऽनभिधानादप्रयोगार्ह एवेति विज्ञायते। द्वन्द्वे तु यद्यपि एकवचनान्नानेकार्थावगतिः, तथाहि अनेकश्रुतिनिबन्धनासौ भविष्यतीति समाहारेऽपि न दोषः। एकशेषेऽपि च यत्राऽनेकार्थाभिधानसामर्थ्यं कथंचिद् भवति, भवत्येव तत्र समाहारैकवचनम्, यथा शुक्लं वस्त्रं, शुक्ला शाटी, शुक्लः पट इति तदिदं शुक्लमिति।

Showing 591 to 600 of 1013 verses