अथ मतमेतत् प्राक् समासाद् यत्र सामानाधिकरण्यम्, इहापि न दोषो भवति; न हि प्राक् समासात् सामानाधिकरण्यमत्र विद्यते।
ननु च वाक्येऽपि समुदायप्रक्रमेणैवावयवपदानां प्रयोगात् कथमुच्यते प्राक् समासात् सामानाधिकरण्यं नास्तीति ?
समुदायप्रक्रमस्य निर्निबन्धनत्वेनाप्रतीयमानत्वात्। कुवलयादिशब्दसामाना— धिकरण्यं हि सुरभिप्रभृतीनामसमासेऽपि समुदायतानिबन्धनम्; इह त्वेकार्थीभावः समुदायाभिधाने निमित्तमिति वाक्ये सामानाधिकरण्यप्रसिद्धिः।
एवमपि, विप्रतिषिद्धेषु युगपदधिकरणवचनताया अनुपपत्तिः, यथा सुखदुःखे जननमरणे, शीतोष्णे इति। सुखादिप्रतिघातेन हि दुःखादयः, दुःखादिप्रतिघातेन च सुखादय इति।
नैवम्। सर्व एव शब्दा विप्रतिषिद्धाः, प्लक्षन्यग्रोधावित्यत्रापि, हि प्लक्षशब्दः प्रयुज्यमानः प्लक्षार्थं संप्रत्याययति, न्यग्रोधार्थं निवर्त्तयति; न्यग्रोधशब्दः प्रयुज्यमानो न्यग्रोधार्थं प्रत्याययति प्लक्षार्थं निवर्त्तयति। तत्र चेद् युक्ता युगपदधिकरणवचनता दृश्यते, इहापि युक्तं दृश्यताम्।
एवमपि शब्दपौर्वापर्यप्रयोगादर्थपौर्वापर्याभिधानं प्राप्नोति।
ततः किम्? युगपदधिकरणवचनताया अनुपपत्तिः— प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधा' इति; यथैव हि शब्दानां पौर्वापर्यं तद्वदर्थानाम/?/पि स्यात्।
नैवम्। एवं सति द्विवचनबहुवचनयोरप्यनुपपत्तिः; प्लक्षशब्दो हि सार्थको निवृत्तः; न्यग्रोधशब्द उपस्थितः; स चैक एकार्थ इति तस्मादेकवचनमेव प्राप्नोति। विग्रहे खल्वपि युगपदधिकरणवचनता दृश्यते, किं पुनः समासे। तद्यथा 'द्यावा ह क्षामा' 'द्यावा चिदस्मै पृथिवी सन्नमेते' इति (ऋवे. १०.११.१, २.१२.१३)
समुदायात् सिद्धमिति चेत्, तन्न, समुदायस्यैकार्थत्वात्; एकार्था हि समुदाया भवन्ति। तद्यथा शतम्, यूथम्, वनमिति। नायमेकार्थः। किंतर्हि। द्व्यर्थो बह्वर्थश्च। प्लक्षोऽपि द्व्यर्थः;, न्यग्रोधोऽपि द्व्यर्थः।
यद्येवम् अनेकार्थत्वाद् 'बहुषु बहुवचनमि' (१.४.२१)—ति बहुवचनं प्राप्नोति? तन्न, बहुत्वाऽभावात् (मभा. २.२.२९ ); याभ्यामेवात्रैको द्व्यर्थस्ताभ्यामेवाऽपरोऽपि। यद्येवमन्यवाचकेन शब्देनान्यस्य वचनं नोपपद्यते।