(३. अव्ययप्रातिपदिकेषु गतिसंज्ञाः)
समासार्हा निपाता एव कतिपयेऽपि गतयः।
तद्यथा—(अष्टाध्यायीसूत्राणि)
प्रादयः १.४.५८ प्रपचति, पराकरोति
ऊर्यादिच्विडाचश्च १.४.६१ ऊरीकरोति
अनुकरणं चानितिपरम् १.४.६२ खाट्कृतम्, खाट्करोति
आदरानादरयोः सदसती १.४.६३ सत्कृत्य, सत्कृतम्, यत् सत्करोति, असत्कृतम्, यदसत्करोति
भूषणेऽलम् १.४.६४ अलङ्कृत्य, अलंकृतम्, यदलङ्करोति