उच्यते, त एव प्रष्टव्याः उच्चरितप्रध्वंसिनामनर्थकानां च वर्णानां समूहस्य पदत्वमर्थवत्तया वर्णयन्तः। वयं त्वेकार्थपरः पदसमूहो वाक्यमित्येव प्रतिजानीमहे। तत्र पदैरपि वाक्यमारभ्यते, वाक्यैरपि च प्रकरणमारभ्यते, वाक्यैः पदैरपि च प्रकरणैः प्रबन्ध आरभ्यते। ततश्च
वाक्येष्वपि वाक्यानि भवन्ति। यथा— (मवीच. १.३०)
कन्यारत्नमयोनिजन्म भवतामास्ते वयं चार्थिनो रत्नं यत्क्वचिदस्ति तत्परिणमत्यस्मासु शक्रादपि।
कन्यायाश्च परार्थतैव हि मता तस्याः प्रदानादहं बन्धुर्वो भविता पुलस्त्यपुलहप्रष्ठाश्च संबन्धिनः ॥ ११८ ॥
प्रकरणेष्वपि प्रकरणानि यथा— इन्दुमतीस्वयंवरे मगधेश्वरादिराजवर्णनादीनि।
प्रबन्धेष्वपि प्रबन्धा यथा— उत्तरचरितादौ गर्भनाटकादीनि।
यदि वाक्यमेव पदसमूहः, कथमाह महावाक्यो(काव्यो)पनिषदाचार्यो दण्डी—
तैश्शरीरं च काव्यानामलङ्काराश्च दर्शिताः।
शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली ॥ ११९ ॥