'स हि महीशो वर्त्तत' इत्यनुप्रासे,
प्रासे प्रासोऽमुना रणे इति पदावृत्तौ,
का ननाद तिमिरादपि काली इति प्रश्नोश्नोत्तरे' इति।
आर्षिक, आर्षिपुत्रक, आर्षीक, वैदिकादि—वाक्यानामलङ्कार—हेतवो वाक्यालङ्कारार्थाः यथा—
अथो, खलु, त्वयि, तर्हि, 'अथ खलु एतर्हि', 'अहो नु खलु भोः',
'इति ह स्म भगवान् पुनर्वसुरात्रेयः',
न ह वै सशरीरस्य सतः प्रियाऽप्रिययोरपहतिरस्ति, (छाउ. ८.१२.१)
न वा अरे जायायै कामाय जाया प्रिया भवति, (बृउ. ४.५)
न वा उ एतन्म्रियसे न रिष्यसि इति। (ऋवे. १.१६२.२१)