कर्त्राश्रितं यथा—अक्षैर्दीव्यति, दात्रेण लुनाति, धनुषा विध्यति, परशुना छिनत्ति।
कर्मरूपं यथा— पथा गच्छति, अन्तिकेन याति, पयसा भुङ्क्ते, यवाग्वा जुहोति।
कर्माश्रितं यथा— पयसा ओदनं भुङ्क्ते, पथा ग्रामं गच्छति, द्विद्रोणेन धान्यं क्रीणाति, पञ्चकेन, पशून् बध्नाति।
क्रियाश्रितं यथा— मासेनाधीते, क्रोशेनाधीते, विश्वजिता यजते, विधिना विदधाति।
अनाश्रितं यथा— स्तोकेन मुक्तः, कृच्छेण लब्धः आलोकेन पश्यति, दीपिकया याति।
आभ्यन्तरमपि आन्तरम्, अवान्तरम्, आभ्यन्तरम्, अनन्तरं, समनन्तरं, प्रत्यनन्तरं, बाह्याभ्यन्तरमिति। तत्र—
आन्तरं यथा— आत्मना बुध्यते, स्वयमुपक्रमते, स्वतः प्रकाशते, अन्योन्यतो जानाति।
अवान्तरं यथा— जात्या दुर्जनः, प्रकृत्या अभिरूपः, निसर्गेणार्यः, स्वभावेन सुभगः।
आभ्यन्तरं यथा— अहङ्कारेण कत्थते, सत्त्वेन सहते, रजसाऽनुरज्यते, तमसा मुह्यति।