भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 551 to 560 of 756 verses
अनन्तरं यथा— मनसा मोदते, अन्तरेणाचरति, प्रतिभया पश्‍यति, संस्कारेण स्मरति।

समनन्तरं यथा— प्रयत्नेनारभते, बुद्ध्या जानाति, सुखेन शेते, दुःखेन पठति।

प्रत्यनन्तरं यथा— धर्मेण वर्धते, अधर्मेण पतति, अविद्यया मृत्युं तरति, विद्ययाऽमृतं प्राप्नोति।

बाह्याभ्यन्तरं यथा— चक्षुषा पश्‍यति, वाचा वदति, इङ्गितेन कथयति, आकारेण ज्ञापयति।

(बाह्याभ्यन्तरम् —६)

बाह्याभ्यन्तरमपि बहिर्मुखमन्तर्मुखं, निर्मुखं, बहिरुद्रेकमन्तरुद्रेकं, निरुद्रेकं च। तेषु बहिर्मुखं यथा— विद्ययाऽमृतमाप्नोति।

अन्तर्मुखं यथा— घ्राणेन जिघ्रति, जिह्वया स्वादयति, स्पर्शेन बुध्यते, श्रोत्रेण श्रृणोति।

निर्मुखं यथा— निश्शङ्कत्वेन यातः, निर्भयत्वेन आयातः, निष्किञ्चनत्वेन मुक्तम्(क्तः), निरायुधत्वेन हतः।

बहिरुद्रेकं यथा— पद्भ‍यां य‍ गच्छति, पाणिभ्यां स्पृशति, संज्ञया गमयति, पौंस्नेन प्रीणाति।

अन्तरुद्रेकं यथा— बलेन वर्षति, कौशलेन रञ्जयति, अभियोगेनाधीते, अभ्यासेन धारयति।

Showing 551 to 560 of 756 verses