निरुद्रेकं यथा— प्रायेण याज्ञिकः, गोत्रेण गार्ग्यः, अभिजनेन सौह्मः, शाखया च्छन्दोग इति।
निष्किञ्चनत्वस्तोकत्वादीनां सदभावासत्त्वरूपत्वादसाधकत्वमिति चेत् तन्न।
यथैव सन्निधौ तस्य तथैवासन्निधावपि।
भावस्य करणत्वेन क्रियासिद्धिः प्रतीयते॥ १०७॥१
स्तोकत्वस्याभिनिर्वृत्तेरनिर्वृत्तेश्च तस्य वा।
प्रसिद्धिं करणत्वस्य स्तोकादीनां प्रचक्षते॥ १०८॥
न च करणस्य वास्तवं रूपमस्ति विवक्षानिबन्धनत्वात्। तदुक्तम्—
वस्तुतस्तदनिर्देश्यं न हि तद् वस्तुनि स्थितम्।