किं त्वं राधे! दृशि निपतिता देवकीनन्दनस्य॥ ८५॥
हेतुविशेषेषु प्रयोजकः कारकश्च कारक एव; अकारकस्तु प्रपञ्च्यते। तत्र— कार्यप्रसवयोग्यः कारकस्तु षोढा— लिङादिवाच्यः, सद्वाच्यः, निपातादिवाच्यः, तृतीयावाच्यः पञ्चमीवाच्यः, प्रथमादिवाच्य इति। तेषु—
पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम्।
ततोऽनुकुर्याद् विशदस्य तस्यास्ताम्रोष्ठपर्यस्तरुचिस्मितस्य॥ ८६॥
सद्वाच्यो यथा—(कुसं. ७.२१)
सा संभवद्भिः कुसुमैर्लतेव ज्योतिर्भिरुद्यद्भिरिव त्रियामा।
सरिद् विहङ्गैरिव लीयमानैरामुच्यमानाभरणा चकाशे॥ ८७॥