भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 621 to 630 of 756 verses
कथं प्रभावादीनां ध्रौव्यमिति चेत् शब्दव्यापारतोऽपायाभिनिवेशः।

(उपात्तविषयम् —६)

औदासीन्याद् यत्रोपात्तक्रियासामर्थ्यादवगम्यमानक्रियापदेनापायप्रतीतिस्तद् उपात्तविषयम्। तदपि षोढा— सिद्धरूपं, साध्यरूपं, प्राप्यरूपमप्राप्यरूपं, परिहर्तव्यं, निर्हर्तव्यमिति। तेषु —

सिद्धरूपं यथा— कूलात् पतति, कुसूलात् पचति, कांस्यपात्रतो भुङ्क्ते, ब्राह्मणाच्छंसति, उपाध्यायादधीते।

साध्यरूपं यथा— अध्ययनात् पराजयते, धर्मात् प्रमाद्यति, अधर्माजुगुप्सते, अकृत्याद् विरमति।

प्राप्यरूपं यथा— आसनात् प्रेक्षते, प्रासादादवलोकयति, बलाहकाद् विद्योतते, यौवनतो विकुरुते।

अप्राप्यरूपं यथा— द्वयहादन्नं भोक्ष्यते, आमृत्योः श्रियामाकाङ्क्षेत्, क्रोशाल्लक्ष्यं विध्यति, आपाटलिपुत्राद् वृष्टो देवः।

परिहर्तव्यं यथा— चोरेभ्यो बिभेति, दुर्जनेभ्य उद्विजते, उपाध्यायादन्तर्धर्त्त, सहाध्यायिभ्यो निलीयते।

निर्हर्तव्यं यथा— चोरेभ्यो गुह्यं त्रायते, रोगेभ्य आतुरं रक्षति, काकेभ्यो दध्यवति, असत्यादात्मानं पाति।

(अपेक्षितक्रियम् —६)

Showing 621 to 630 of 756 verses