यो हि दीर्घासिताक्षस्य विलासवलितभ्रुवः।
कान्तामुखस्यावशगः तस्मै नृपशवे नमः॥ १०२॥
कर्मप्रवचनीयरूपं यथा—(कुसं. ७.८४)
आ लोचनान्ताच्छ्रवणे विवृत्य पीतं गुरोस्तद् वचनं भवान्या।
निदाघकालोल्बणतापयेव माहेन्द्रमम्भः प्रथमं पृथिव्या॥ १०३॥
शब्दान्तरसाहचर्यविरोधलिङ्गस्वराभिनयादयः प्रकीर्णम्। तत्र— शब्दान्तरं यथा—
भवतु समदना रतये तिलकवती चारुचम्पकच्छाया।
घनचन्दनधवलकुचाक्रान्ता तव विद्विषामटवी॥ १०४॥