लक्ष्मणानुगतो भाति शशी राम इवापरः।
कौसल्येव बिभर्ति द्यौरभिषेकोज्ज्वलां श्रियम्॥ १०५॥ (?)
हरिबाणाविमौ रोषादुभावपि धृतायुधौ।
प्रहर्तुमुद्यतौ वीरौ रणे रामार्जुनाविव॥ १०६॥ (?)
आप्याययति मित्रो यं यस्य मित्रं पयोनिधिः।
सोऽप्यमित्रश्शशी जातस्तदमैत्र्याऽद्य मे सखि !॥ १०७॥ (?)
यदि मे वल्लभा दूती तदाहमपि वल्लभा।