भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 631 to 640 of 756 verses
यत्रार्थप्रकरणादिभ्यो गम्यमानात् क्रियापदादपायबुद्धिस्तदपेक्षितक्रियम्।

तदपि षोढा— सामान्यक्रियापेक्षं विशेषक्रियापेक्षं सत्त्वभूतापेक्षमसत्त्वभूतापेक्षं नियतरूपापायम् अनियतरूपापायमिति। तेषु—

सामान्यक्रियापेक्षं यथा— दानवेभ्यो देवा बुद्धिमन्तः, सुरेभ्योऽसुरा योद्धारः, सुह्या ब्रह्योत्तरेभ्य आढ्यतराः, पाटलिपुत्रेभ्यः सुकुमारतराः।

विशेषक्रियापेक्षं यथा— रोहणाद् रत्‍नम्, पयो वारिधरात्, कुतो भवान्? पाटलिपुत्रात्।

सत्त्वभूतापेक्षं यथा— अन्यो देवदत्तात्, इतरो देवदत्तात्, पृथक् देवदत्तात्, नाना देवदत्तात्।

असत्त्वभूतापेक्षं यथा— ऋते देवदत्तात्, विना देवदत्तात्, आराद् देवदत्तात्, दूराद् देवदत्तात्।

नियतरूपापायं यथा— कौमुद्या यक्षरात्रिः पक्षे, कार्तिक्या आग्रहायणी मासे, गवीथुमतः सांकाश्यं चतुर्षु योजनेषु, पाटलिपुत्राद् राजगृहं सप्‍तयोजनानि।

अनियतरूपापायं यथा— प्राग्ग्रामातृ, दक्षिणा ग्रामात्, तत उपरिष्‍टात्।

अन्ये तु 'ध्रुवमपायेऽपादानम्' (१.४.२४) इति निर्दिष्‍टविषयम्; 'भीत्रार्थानां भयहेतुः' (१.४.२४), 'पराजेरसोढः' (१.४.२६) 'वारणार्थानामीप्सितः' (१.४.२७), 'अन्तर्धौ येनादर्शनमिच्छति' (१.४.२८), 'आख्यातोपयोगे' (१.४.२९), 'जनिकर्तुः प्रकृतिः' (१.४.३०), 'भुवः प्रभवः' (१.४.३१), 'ल्यब्लोपे कर्मण उपसंख्यानम्' (१.४.३१, वा), 'सप्‍तमीपञ्चम्यौ कारकमध्ये' (२.३.७), इत्यादियोगोक्तमुपात्तविषयम्; 'पञ्चमी विभत्त्के' (२.३.४२), 'अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते' (२.३.२९), 'प्रतिःपतिनिधिप्रतिदानयोः' (१.४.९२), 'प्रतिनिधिप्रतिदाने च यस्मात्' (२.३.११) इत्यादिकं त्ववधिभावादपेक्षितक्रियमिति त्रिधाऽपादानं मन्यन्ते। आहुश्‍च—

निर्धारणे विभक्ते यो भीत्रादीनां च यो विधिः।

Showing 631 to 640 of 756 verses