अपेक्षितक्रियं चेति त्रिधाऽपादानमुच्यते॥ ११२॥
तेषु यत्रोपात्तक्रियोपादानेनापायः प्रतीयते, तन्निर्दिष्टविषयम्।
तत् षोढा— उज्झितमनुज्झितमीप्सितं जिहासितं परिणतं निवृत्तमिति। तत्र— उज्झितं यथा— ग्रामादागच्छति, वृक्षात् पर्णं पतति, मेषादे(न्मे)षोऽपसर्पति, धावतोऽश्वात् पतितः।
अनुज्झितं यथा—श्रृङ्गाच्छरो जायते, हिमवतो गङ्गा प्रभवति, वटात् प्ररोहो लम्बते, अग्नेर्धूम उच्चरति।
ईप्सितं यथा— यवेभ्यो गां निषेधति, माषेभ्यो महिषान् रुणद्धि, कूपादन्धं वारयति, अग्नेर्माणवकमपसारयति।
जिहासितं यथा— अरण्यान्निष्क्रामति, गर्तादुत्तरति, पर्वतादवरोहति, आकाशात् पतति।
परिणतं यथा— गोमयात् वृश्चिको जायते, गोलोमाविलोमभ्यो दूर्वा भवन्ति, सुवर्णात् कुण्डलमुत्पद्यते, काशेभ्यः कटो भवति।
निवृत्तं यथा— प्रभावाद्धीयते, प्रज्ञायाः प्रभ्रश्यते, न्यायादपैति, स्वरूपात् प्रच्यवते।