सुखास्तेभ्यो विभावर्यस्तेभ्यो हितमहस्सदा।
येषामकृत्रिमप्रेमा प्रिया पार्श्वं न मुञ्चति॥ ९९॥
नामार्थरूपं यथा—(रघु. ९.४०)
हुतहुताशनदीप्ति वनश्रियः प्रतिनिधिः कनकाभरणस्य यत्।
युवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम्॥ १००॥
प्रत्ययरूपं यथा—(किराता. १०.४४)
नृपसुतमभितस्समन्मथायाः परिजनगात्रतिरोहिताङ्गयष्टेः।
स्फुटमभिलषितं बभूव बध्वा वदति हि संवृतिरेव कामितानि॥ १०१॥