तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे।
आर्ये व्रजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श॥ ९६॥
क्रियालक्षणं यथा—(काव्याद. २.११)
बध्नन्नङ्गेषु रोमाञ्चं कुर्वन्मनसि निर्वृतिम्।
नेत्रे चामीलयन्नेष प्रियास्पर्शः प्रवर्तते॥ ९७॥
उपपदं षोढा— क्रियारूपं, नामरूपं, नामार्थरूपं, प्रत्ययरूपं, निपातरूपं, कर्मप्रवचनीयरूपमिति। तेषु—
क्रियारूपं यथा—(कुसं. ६.५९)
भवत्सम्भावनोत्थाय परितोषाय मूर्च्छते।
अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे॥ ९८॥