पारावतः परिक्रम्य रिरंसुश्चुम्बति प्रियाम्॥ ९३॥
विकारलक्षणं यथा—(माघ. १.७०)
स बाल आसीद् वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः।
युवा कराक्रान्तमहीभृदुच्चकैरसंशयं संप्रति तेजसा रविः॥ ९४॥
उत्पातलक्षणं यथा—(विसा. १.३)
गोनासाय नियोजितागदरजास्सर्पाय बद्धौषधिः
कण्ठस्थाय विषाय वीर्यमहतः पाणौ मणीन्बिभ्रती।
भर्तुर्भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा
रक्षत्वद्रिसुता विवाहसमये ह्रीता च भीता च या॥ ९५॥
भावलक्षणं यथा—(रघु. ६.८२)