यदि तस्यां प्रिया वाचस्तन्ममापि प्रिय प्रियाः॥ १०८॥
एते वयममी दाराः कन्येयं कुलजीवितम्।
ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु॥ १०९॥
प्रातिपदिकार्थस्त्रिधा १. स्वार्थः, २. द्रव्यं ३. लिङ्गं च। तेषु—
शब्दात्मैव स्वार्थः। स द्विधा— स्वरूपमनुकार्यश्च। तयोः—
स्वरूपं द्विधा— सत्त्ववचनार्हमसत्त्ववचनार्हं च।